________________
अर्जुन उवाच
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १८.१ ॥
I
ॐ ॥ पूर्वाध्यायेषु सर्वेषु त्रैगुण्यविषया वेदा' (२.१५) इत्यादिना यत्पुमर्थहेतुज्ञानसाधनं विप्रकीर्णतयोक्तं, तदिह मन्दानां बुद्धयारोहाय सङ्क्षिप्य निरुप्यते । तथा चतुर्दशाध्यायोक्तं त्रिगुणकार्यं चोच्यते । 'संन्यासश्चैव योगश्च' (५.६) इत्यादिना पञ्चमादौ संन्यासस्य 'त्यागाच्छांतिरनंतरं ' (१२.१२) इति द्वादशे त्यागस्य च पुमर्थहेतुत्वमुक्तम् । तयोः स्वरूपनिर्णयाय पृच्छति ॥ संन्यासस्येति । हे हृषीकेश सर्वेन्द्रियस्वामिन् । केशिनामकासुरमर्दन । संन्यासस्य त्यागस्य च पृथक् तत्त्वं स्वरूपं वेदितुं ज्ञातुमिच्छामि । द्वयोरपि
शब्दयोरापाततोऽर्थैक्यप्रतीतेरिति भावः ॥ १८.१॥
श्रीभगवानुवाच
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ १८.२॥
अथाऽप्यस्ति विवक्षाभेदेन भेद इति भावेनोत्तरमाह ॥ काम्यानामिति । वैकल्पिककाम्यानां ज्योतिष्टोमादीनां स्वर्गादिफलानिच्छ्या
विशेषणत्यागेन काम्यानां कर्मणां त्यागम्, नियतकाम्यानां
कारीर्यादीनां स्वरूपाकरणेन त्यागं संन्यासं ज्ञानिनो विदुः जानंति ।
विचक्षणाः कुशलाः सर्वकर्मणां भगवत्प्रीत्यन्यफलत्यागं
त्यागशब्दार्थमाहुः इत्यर्थः ॥१८.२॥
त्याज्यं दोषवदित्येके कर्म प्राहर्मनीषिणः । यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥१८.३॥
१